वांछित मन्त्र चुनें

यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा । अ॒यं दे॒वो बृह॒स्पति॒: सं तं सि॑ञ्चतु॒ राध॑से ॥

अंग्रेज़ी लिप्यंतरण

yas te drapsaḥ skanno yas te aṁśur avaś ca yaḥ paraḥ srucā | ayaṁ devo bṛhaspatiḥ saṁ taṁ siñcatu rādhase ||

पद पाठ

यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा । अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥ १०.१७.१३

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:13 | अष्टक:7» अध्याय:6» वर्ग:25» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे परमात्मन् ! तेरा (यः-द्रप्सः-स्कन्नः) प्राप्त आनन्दप्रद रस (ते) तेरा (यः अंशुः) जो रश्मि ज्योति (स्रुचा) स्तुति वाणी द्वारा (यः-अवः-च परः-च) जो इस लोक में-इस जीवन में और परलोक में-परजीवन में प्राप्त होता है (अयं देवः-बृहस्पतिः) यह दिव्य प्राण (राधसे) सुखसमृद्धि के लिये (तं संसिञ्चतु) उस आनन्दरश्मि और ज्ञानरश्मि को मेरे में सम्यक् प्रवाहित करे ॥१३॥
भावार्थभाषाः - आध्यात्मिक दृष्टि में परमात्मा का आनन्दरस और ज्ञानज्योति स्तुति करने से इस जीवन में और परजीवन में प्राप्त होते हैं। प्राण उन्हें सुखसमृद्धि के लिए जीवन में प्रवाहित कर देता है ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे परमात्मन्  ! तव (यः-द्रप्सः स्कन्नः) आनन्दरसः प्राप्तः (ते) तव (यः-अंशुः) यो रश्मिः-ज्योतिः (स्रुचा) वाचा स्तुत्या “वाग्वै स्रुक्” [श०६।३।१।८] (यः-अवः-च-परः च) अवरेऽस्मिन् लोके जीवने परस्मिन् लोके जीवने वा प्राप्तो भवति (अयं देवः-बृहस्पतिः) एष दिव्यः प्राणः “एष प्राणः उ एव बृहस्पतिः” [श०१४।४।१।२२] (राधसे) सुखसमृद्धये (तं संसिञ्चतु) तमानन्दरसं ज्ञानरश्मिं च मयि सम्यक् प्रवाहयतु ॥१३॥